Shani Stotra

कोणस्थ: पिङ्गलो बभ्रु: कृष्णो रौद्रोऽन्तको यमः ।
सौरिः शनैश्‍चरो मन्दः पिप्पलादेन संस्तुतः ॥

एतानि दश नामानि प्रातरुत्थाय य: पठेत् ।
शनैश्‍वरकृता पीडा न कदाचित् भविष्यति ॥

पिप्पलाद उवाच । नमस्ते कोणसंस्थाय पिङ्गलाय नमोऽस्तुते ।
नमस्ते बभ्रुरूपाय कृष्णाय च नमोऽस्तुते ॥ १ ॥

नमस्ते रौद्रदेहाय नमस्ते चान्तकाय च ।
नमस्ते यमसंज्ञाय नमस्ते सौरये विभो ॥ २ ॥

नमस्ते मन्दसंज्ञाय शनैश्‍चर नमोऽस्तुते ।
प्रसादं कुरु देवेश दीनस्य प्रणतस्य च ॥ ३ ॥

Leave a Comment